ISSN: 2456–5474 RNI No.  UPBIL/2016/68367 VOL.- VIII , ISSUE- I February  - 2023
Innovation The Research Concept
संस्कृतव्याकरणशास्त्रे प्रत्याहारवैशिष्ट्यम्
The Characteristic of Refrain in Sanskrit grammar
Paper Id :  17336   Submission Date :  17/02/2023   Acceptance Date :  22/02/2023   Publication Date :  25/02/2023
This is an open-access research paper/article distributed under the terms of the Creative Commons Attribution 4.0 International, which permits unrestricted use, distribution, and reproduction in any medium, provided the original author and source are credited.
For verification of this paper, please visit on http://www.socialresearchfoundation.com/innovation.php#8
महेता प्रतिक घनश्यामभाई
सहायक प्राध्यापक
डिपार्टमेंट ओफ संस्कृत,पाली & प्राकृत
महाराजा सयाजिराव युनिवर्सिटी,
वडोदरा,गुजरात, भारत
सारांश व्याकरणशास्त्रस्य विशेषता शास्त्रस्य लेखनपद्धतिरस्ति । अष्टाध्याय्यां मुनिना सूत्ररूपेण लेखनं कृतम् । सूत्रस्य लक्षणमेवास्ति यत्- अल्पाक्षरमसन्दिग्धं सारवद्विश्वतोमुखम्। अस्तोभमनवद्यञ्च सूत्रं सूत्रविदो विदुः॥
सारांश का अंग्रेज़ी अनुवाद The characteristic of grammar is the way the scripture is written. In the eighth chapter the sage wrote in the form of a formula The characteristic of the formula is that:
Small letters, unquestionable, universal, like the essence.
Those who know the Sutra know the Sutra to be unstoppable and flawless.
मुख्य शब्द प्रत्याहार प्रक्रिया पद्धति ।
मुख्य शब्द का अंग्रेज़ी अनुवाद Retraction Process Methodology.
प्रस्तावना
पाणिनिव्याकरणस्य प्रारम्भे एव दृश्यते माहेश्वरसूत्राणि । इमानि सूत्राणि महेश्वरादागतानि अतः माहेश्वराणि इति। 'महेश्वर' इत्यस्मात् “तत आगतः” (४/३/७४) इत्यनेन सूत्रेण 'अण्' प्रत्यये 'माहेश्वर' इति । तत्र क्लीवे प्रथमायाः बहुवचने 'माहेश्वराणि' इति, 'सूत्राणि' इत्यस्य विशेषणत्वाद्। उक्तञ्च पाणिनिशिष्यप्रणीतशिक्षायाम्- येनाक्षरसमाम्नायमधिगम्य महेश्वरात्। कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः ॥
अध्ययन का उद्देश्य व्याकरण महाभाष्ये लिखितमस्ति यत् - "लघ्वर्थं चाध्येयं व्याकरणम्" वयं अस्माकं जीवने नैकानां शब्दानां शब्दप्रयोगं कुर्मः। अशबादोच्चारणेन पापस्य समस्या, सम्यक् फलस्य अप्रप्ति इत्यादि दोषाः जायन्ते। व्याकरणाध्ययनेन साधुशब्दस्य ज्ञानं भवति तथा पापशून्यं जीवनं लभ्यते।
साहित्यावलोकन

व्याकरणग्रन्थस्याध्ययनेन अन्यग्रन्थस्याध्ययनमपि सरलतया भवति । "मुखं व्याकरणं स्मृतम्" इति सुवचनस्य सिद्धिरपि दृश्यते । प्रत्याहारस्यालौकिकस्वरूपदर्शनमपि भवति । अतीवाल्पाक्षरस्वरूपेण गूढरहस्यनिलूपणमपि दृश्यते ।

मुख्य पाठ

माहेश्वरसूत्रेषु वर्णसमाम्नायः दृश्यते । तत्र प्रथमतः चतूर्थसूत्रं यावत् स्वरवर्णाः निरूपिताः, पञ्चमे षष्ठे तु अन्तःस्थाः, सप्तमे वर्गीयपञ्चमवर्णाः, अष्टमे नवमे च वर्गीयचतुर्थवर्णाः, दशमे वर्गीयतृतीयवर्णाः, एकादशद्वादशयोः क्रमेण वर्गीयाः द्वितीयवर्णाःप्रथमवर्णाश्च, अन्तिमसूत्रद्वये उष्मसंज्ञकाः ।माहेश्वरसूत्राणां प्रयोजननिरूपणावसरेसिद्धान्तकौमुदीकारेणोक्तम्- "इति माहेश्वराणि सूत्राण्यणादिसंज्ञार्थानि”। अणादीत्युक्ते प्रत्याहाराः द्योत्यन्ते। अधुना तु आलोच्यते कस्तावत् प्रत्याहारः इति ।

आचार्येण पाणिनिना प्रत्याहारसंज्ञानिरूपणावसरे सूत्रमेकं विरचितम्, तद्यथा- “आदिरन्त्येन सहेता" (१/१/७१) इति । तेनावगम्यते - अन्त्येनेता सहित आदिर्मध्यगानां स्वस्य च संज्ञा स्यादिति । अत्र तु आद्यन्तशब्दाभ्यां मध्यगानां संज्ञा अक्षिप्यन्ते। सूत्रेऽस्मिन् 'अन्त्येन' इति "सहयुक्तेऽप्रधाने” (२/३/१९) इति सूत्रानुसारेण अप्रधाने सहार्थे तृतीया इति । तेन अन्त्यस्य अप्राधान्यं सूच्यते। अतः प्रत्याहारेषु आदिः, मध्यगानां च संज्ञा स्यात् । तु “स्वं रूपं शब्दस्याशब्दसंज्ञा” (१/१/६८) इत्यस्माद् सूत्राद् ' स्वम्' इति पदस्यानुवर्तनाद् स्वस्यापि ग्रहणं स्यादिति स्पष्टम् ।

अत्र तु स्वशब्देन आदिरेव परामृश्यते, नान्त्यः अप्रधानत्वाद् । तत्र प्रत्याहारेषु अनुबन्धानां न ग्रहणमिति । इति। अनुनासिक इत्यादि निर्देशात् ज्ञायते अनुबन्धानामग्रहणम् ।प्रसङ्गेऽस्मिन् भाष्यकृत हेतुत्रयं निरूपितम्-

आचारादप्रधानत्वाल्लोपश्च बलवत्तरः "

अनुनासिक इत्यादि निर्देशात् जायते अनुबन्धानामग्रहणम्।अन्यथा यणादिकार्यं स्युः इत्याचारः । अचां णकार- ककारादीनामप्रधानत्वादग्रहणम् । पुनश्च अत्र हलन्त्यमिति सूत्रेन लोपः बलवत्तरः इति । अत्र प्रथमे तु वर्णानामुपदेशः, अनन्तरं लोपविधानम्, ततः प्रत्याहारसंज्ञा इति । तस्माद् लोपस्य बलीयस्त्वाद् प्रत्याहारेषु इत्वर्णानां न ग्रहणमिति बोध्यम्।

तत्राशङ्कते इक् इत्यादयः प्रत्याहाराः कथं सिद्धाः? '' इति तु "अ इ उ ण्" इति सूत्रस्य न आदिवर्णः । तत्राक्षिप्यते- हि सूत्रापेक्षमिहादित्वम् किन्तु आद्यन्तशब्दाक्षिप्तसमुदायापेक्षम् |तेन इगित्यनेन "अ इ उ ण्” (मा० सू० १) इति सूत्रस्य इकारतः “ऋ ऌ क्” (मा० सू० २) क्-कारं यावत् वर्णाः गृह्यन्ते । तत्र प्रत्याहारेष्वितां न ग्रहणम् अनुनासिक इति निर्देशात् सिद्धान्तकौमुद्यां स्पष्टीकृतम् ।

अधुना तु आलोच्यते प्रत्याहाराः कथं निर्दिष्टाः ? अल्पाक्षराय इति । सूत्रस्य लक्षणे दृश्यते अल्पाक्षरमिति 'विशेषणम्। तत्र 'अच्' इत्यनेन सर्वेषां स्वराणां ग्रहणम् । एवञ्च हल इत्यनेन सर्वाणि व्यञ्जनानीति । तेन "इको यणचि” (६/१/७७) इत्यनेन इकः इत्युक्ते सवर्णैः सह इ,,, ऌ इत्येते वर्णः द्योत्यन्ते । यण् इत्युक्ते य्, व्, र्,ल् इत्येते, तथा अच् इत्यनेन स्वराः। तेन सूत्रेणानेन ज्ञायते सवर्णैः सह इ, , , ऌ इत्येतेषां परे स्वरवर्णाः विद्यमाने क्रमेण इकारस्य यकारः, उकारस्य वकारः, ऋकारस्य रकारः, ऌकारस्यलकारः इति व्याप्तविषयोऽयम् अल्पाकृतिना सूत्रेण निरूपितः । इत्यत्रोपयगित्वं प्रत्याहाराणाम्।

प्रत्याहारशब्दस्यव्युत्पत्तिनिरूपणावसरेवालमनोरमाटीकाकारेणोक्तम्- “प्रत्याह्रियन्ते संक्षिप्यन्ते इति व्युत्पत्तेरिति भावः "| प्रति,आचेति उपसर्गद्वयपूर्वकात् '' धातोः अधिकरणार्थे 'घञ्' प्रत्यययोगेन निष्पद्यते प्रत्याहार इति । “करणाधिकरणयोश्च” ( ३/३/११७) इति सूत्रेण ल्युटि प्राप्ते, “कृत्यल्युटो बहूलम्” (३/३/११३) इत्यस्मिन् सूत्रे बहुलग्रहणाद् अधिकरणे 'घञ्' इति भावः । अत्र व्युत्पत्त्यैव निर्दिश्यते संक्षेपाय प्रत्याहाराणां ग्रहणमिति । जैनेन्द्रव्याकरणे प्रत्याहारस्य वर्णनावसरे निर्दिष्टं यत्-

प्रत्याहारो हि वर्णैकमुखीकरणमिष्यते

अपिचअसन्धिग्धात्मकं भवेत्।प्रत्याहारविषयवगतस्य जनस्य 'अच्' इत्युक्ते स्वराः इतिविषये सन्देहः न जायते। तस्मात् प्रत्याहारग्रहणेन संक्षिप्तदिशा सन्देहातीतरूपेण वर्णा उपदिष्टाः इत्येव विशेषः । भाष्यकृता विस्तारेणालोचितम्। तेन सिद्धान्तरूपेण उक्तम्-

वर्णज्ञानं वाग्विषयो यत्र च ब्रह्म वर्तते ।

तदर्थमिष्टबुद्ध्यर्थं लघ्वर्थञ्चोपदिश्यते ॥

वर्णपरिज्ञानादुपदिष्टानि माहेश्वरसूत्राणि । “अ इ उ ण्" ( मा० सू० १) इत्यादिभिः माहेश्वरसूत्रैः वर्णानां ज्ञानं भवति इति । शास्त्रादिषु प्रवृत्त्यर्थं वर्णज्ञानमावश्यकमिति ॥ तत्र लघ्वर्थमिति निर्देशेन प्रत्याहारादीनामुपयोगित्वं प्रतिपादितम् । उद्द्योतकृतोक्तम्-

 “अनुबन्धकरणमूलकप्रत्याहारद्वारालाघवेनशास्त्रप्रवृत्त्यर्थमित्यर्थ:”। वर्णोपदेशस्य कारणरूपेणकात्यायनेनोक्तम्-वृत्तिसमवायार्थउपदेशोनुबन्धकरणार्थश्च । तन्निरूपयता निर्दिष्टं यत्- “वृत्तिसमवायार्थो वर्णानामुपदेशः । का पुनर्वृत्तिः ? शास्त्रप्रवृत्तिः । समवायः ? वर्णानामानुपूर्व्येण सन्निवेशः । उपदेशः ? उच्चारणम्। कुत एतत् ? दिशिरुच्चरणक्रियाः । उच्चार्य वर्णानाह- उपदिष्टा इमे वर्णा इति। अनुबन्धकरणार्थश्च वर्णानामुपदेश:” पाणिनि व्याकरणे ये तावत् प्रत्याहाराः परिलक्ष्यन्ते ते क्रमेण अनुबन्धवर्णक्रमेणालोच्यते।

1.  "अइउण्” ( मा० सू० १) इत्यत्र णकारानुबन्धः 'अण्' संज्ञार्थः । यथा- “उरण् रपरः " ( १/१ / ५१ ) |

2.  ऋऌक्" (मा० सू० २ ) इत्यत्र कित्करणम् अक्, इक्, उक् संज्ञार्थः । अक्- "अकः सवर्णे दीर्घः" (६/१/१०१),इक्- "इको यणचि" (६/१/७७), उक्- “उगितश्च” (४/१/६) इत्यादिषु सूत्रेषु दृश्यन्ते ।

3. एओङ्” (मा० सू० ३) अत्र ङित् 'एङ्' प्रत्याहाराय । स च "एङः पदान्तादति" (६/१/१०९) इत्यादिषु सूत्रेषु लक्ष्यते।

4. ऐऔच्" ( मा० सू० ४) चकारस्तु अच्, इच्, एच्,ऐच् इत्येतेषां संज्ञाकरणाय । तत्र अच्- "इको यणचि"(६/१/७७), इच्- “इजादेश्च गुरुमतोऽनृच्छः" (३/१/३६), एच्- "वृद्धिरेचि" (६/१/८८), ऐच्- "वृद्धिरादैच्" (१/१/१) ।

5.  हयवरट् (मा० सू० ५) अत्र टित्करणम् 'अट्' प्रत्याहाराय। तत्रोदाहरणं यथा- "अट्कुप्वाङ्नुम्व्यवायेऽपि” (८/४/२) |

6. लण्" ( मा० सू० ६) णकारानुबन्धः अण, इण्, यण् प्रत्याहारार्थः । अण्- "अणुदित्सवर्णस्य चाप्रत्ययः" (१/१/६९) इत्यस्मिन् सूत्रे एव दृश्यते, नान्यत्र । इण्- "इण्कोः” (८/३/५७), यण्- “इको यणचि" (६/१/७७) इति। "लण्” (मा० सू० ६) इति सूत्रे लकारात् परस्थितस्य अनुनासिकसंज्ञकस्य अकारस्य इत्संज्ञा दृश्यते, सूत्रं यथा- “उपदेशेऽजनुनसिक इत्' (१/३/२) । येन '' प्रत्याहारः सिद्ध्यति । “उरण् रपरः” (१ / १ / ५१ ) इत्यस्मिन् सूत्रे रप्रत्याहारस्य व्यवहारः परिलक्ष्यते। तेन '' इत्युक्ते रलयोर्ग्रहणमिति । तेन 'तवल्कारः' इत्यादिकं रूपं सिद्धम् । तत्र पृथङ्मतमपि परिलक्ष्यते। '' प्रत्याहारेण रलयोर्बोधस्य सिद्धत्वात् "अतो लान्तस्य " (७/२/२) लकारोच्चारणसामर्थ्याद् रप्रत्याहारः अनित्यः इति कल्पनीयम् । यत्र तु सानुनासिकाकारघटितो रपदं तत्रोभयबोधकम्। किन्तु "रदाभ्यां निष्ठातो नः पूर्वस्य च दः” (८/२/४२) इत्यादिषु सूत्रेषु अनुनासिकाभावात् न उभयोर्ग्रहणमिति भावः । 

7. ञमङणनम्” (मा० सू० ७) अत्र मकारः अम्, यम्, ञम्, डम् इत्येतेषां प्रत्याहाराय । तत्र अम्- “अमि पूर्वः " (६/१/१०७), यम्- “हलो यमां यमि लोपः” (८/४/६४), ञम्- "त्रमन्ताड्डः” (प० उ० १.११४ ), ङम्- “ङमो हस्वादचि ङमुनित्यम्" (८/३/३२) इति । अत्र केचिद् वदन्ति सर्वाणि प्रत्याहाराणि ञकारेण ग्रहणं भवितुमर्हति । तत्र काशिकाकृतोक्तम्- “तथा च सति 'ङमो हस्वादचि ङमुण् नित्यम्' (८/३/३२)इत्यत्रागमिनोर्झभोरभावादागमाभावप्रतिपत्तौ प्रतिपत्तिगौरवं भवति  इति ।

8.  " झभञ्" (मा० सू० ८) ञकारः 'यञ्' संज्ञार्थः । यथा- “अतो दीर्घो यत्रि" (७/३/१०१) |

9. घढधष् (मा० सू० ९) अत्र षित्करणम् झष्, भष् इति प्रत्याहाराय । तत्रोदाहरणं यथा- “एकाचो बशो भश् झषन्तस्य स्ध्वोः” ( ८ / २ / ३७)।

10.  जबगडदश् (मा० सू० १०) इत्यत्र शित्करणम् अश्, हश्, वश्, भश्, झश्, बश् इति प्रत्याहारार्थः । क्रमेणोदाहरणं यथा- "भोभगोअघोअपूर्वस्य योऽशि” (८/३/१७), हश्- "हशि च" (६/१/११४), वश्- "नेड् वशि कृति " (७/२/८), “एकाचो बशो भश् झषन्तस्य स्ध्वोः " (८/२/३७)इत्यत्र बश्, भश् इति प्रत्याहारद्वयस्य व्यवहारः परिलक्ष्यते। झश्- "झलां जश् झशि" (८/४/५३) ।

11. " खफछठथचटतव्” (मा० सू० ११) अत्र वित्करणं छव् इति प्रत्याहाराय । तत्रोदाहरणं यथा- “नश्छव्यप्रशान्” (८/३/७ ) । अत्र ख फ इत्यनयोः ग्रहणं 'खय्' इत्यादिः प्रत्याहारसिद्ध्यर्थम् ।

12.  कपय्" ( मा० सू० १२ ) इत्यत्र यित्करणम् प्रत्याहारचतुष्टयार्थम्। ते यथा यय्, मय्, झय् खय् इति । पुनश्च 'चय्' इत्यपि दृश्यते । स तु वार्तिककृता पौश्करसादिनियमवर्णनावसरे उक्तः, काशिकाकारेण तस्य ग्रहणं न कृतम्। तत्र यकारेण- "अनुस्वारस्य ययि परसवर्णः” (८/४/५८ )। मकारेण "मय उञो वो वा" (८/३/३३) | झकारेण- “झयः " ( ५ / ४ / ११९ )। खकारेण - “पुमः खय्यम्परे (८/३/६) इति । चकारेण “चयो द्वितीयाः शरि पौष्करसादेरिति वाच्यम्" (वा ५०२३)।

13. शषसर्" (मा० सू० १३) अत्र रेफस्तु यर्, झर् खर्, चर्, शर् इति संज्ञार्थः । तत्र क्रमेणोदाहरणं यथा- “यरोऽनुनासिकेऽनुनासिको वा” (८/४/४५) इति । झर्- "झरो झरि सवर्णे" (८/४/६५) । खर्- "खरि च" (८/४/५५) । चर्- "अभ्यासे चर्च" (८/४/४८ ) । शर्- "शर्पूर्वा खयः " (७/४/६१ ) इति ।

14. हल्” (मा० सू० १४) अत्र लित्करणम्- अल्, हल्, वल्, रल्, झल्, शल् इत्येतेषां संज्ञार्थः । अल्- "अलोऽन्त्यात्पूर्व उपधा" (१/१/६५ ) । हल्- “हलोऽनन्तराः संयोगः " (१/१/७) । वल्- “लोपो व्योर्वलि” (६/१/६६ )। रल्- “रलो व्युपधाद्दलादेः संश्च” (१/२/२६)। शल्- “शल् इगुपधादनिटः क्सः" (३/१/४५)|

 हकारस्य वारद्वयं कथमुपदिष्टम्। तत्र हकारस्य ग्रहणाद् कथं पृथग् सूत्रं कृतम् ? तत्र शर्मध्ये एव हकारं पठित्वा “अलोऽन्त्यस्य " (१/१/५२) इत्यादिकं सूत्रम् "अरोऽन्त्यस्य " इत्येवं ग्रहणे कस्तावत् दोषः ? तेन न्यूनग्रहणेनैव कार्यसिद्धिः । तेन "हल्” (मा० सू० १४) इति पृथक् सूत्रं त्यज्यम् इत्युक्ते मैवमिति । कारणं तु हरिहॅसति इत्यादिषु "खरोवसानयोर्विसर्जनीयः " (८/३/१५) इति सूत्रेण विसर्गादेशप्राप्तिः। पुनश्च "वा शरि" (८/३/३६ ) इत्यनेने विकल्पेन विसर्जनीयप्रसङ्गः इति । तन्निवारणाय “हल्” ( मा० सू० १४ ) इति पृथग्ग्रहणमवश्यं करणीयमिति । काशिकाकारेण प्रत्याहाराः निरूपिताः कारिका- 

एकस्मान् ङञणवटा द्वाभ्यां षस्त्रिभ्य एव कणमाः स्युः ।

झेयौ चय चतुर्भ्यो रः पञ्चभ्यः शलौ षड्भ्यः ॥

निष्कर्ष शोधपत्रेण ज्ञायते यदस्माकं शब्दशास्त्रपरम्परातीव गौरवयुक्तमस्ति । व्याकरणग्रन्थस्य ये कर्तारः मूलरूपेण स्वसमयस्य वैज्ञानिकाः एव मन्यन्ते। गूढातिगूढप्रसङ्गस्य सूक्ष्मातिसूक्ष्मरूपेण सर्वत्र दृश्यते च । अस्मिन्शोधपत्रमाध्यमेन प्रत्याहारनिरूपणेऽतीवोत्कर्षात्मकं लाघवस्य निरूपणं प्रदर्शितमस्ति । व्याकरणसर्वशास्त्रोपकारकमप्यस्त्यतो वयं व्यकरणाध्ययनं प्रति गच्छामः इति ।
सन्दर्भ ग्रन्थ सूची
1• “पाणणनीयशिक्षा”, वपङ्गलाचायवः, िन्द्योपाध्यायः अशोक कुमारः (सम्पा०), कोलकाता: 2• “वैयाकरणलसिद्धान्तकौमुदी” (प्रथमोभागः), भट्टोजिदीक्षितः, शर्मा गिरिधरः (सम्पा०), दिल्ली: मोतीलाल बनारसीदास: 3• संस्कृतव्याकरणशास्त्रकाइतिहास, युधिष्ठिर मीमांसक 4• “व्याकरण महाभाष्यम्” पतञ्जलिः, शास्त्री मालाः (सम्पा॰) दिल्ली: चौखम्बा संस्कृतप्रतिष्ठानम् 5• अष्टाध्यायी ,महर्षि पाणिनि 6• व्याकरणशास्त्रेतिहास लोकमणिदहालः 7• परमलघुमञजूषा